अर्जुनः श्रीकृष्णं पृच्छति । हे जनार्दन - यदि ज्ञानमेव कर्मापेक्षया अत्युत्तमं इति त्वं मन्यसे तर्हि किमर्थं रागादिप्रसक्तिहीनं यतिधर्मं विहाय घोरे युद्धरूपे कर्मणि मां नियोजयसि इति ।।३.१।।
अर्जुन् पूछते है - हे जनार्दन, यदि ज्ञानमार्ग ही कर्ममार्ग से श्रेष्ठ मानते हो तो क्यों मुक्षे रागादियुत घोर युद्ध करनेके लिये प्रचोदित् कर रहे हो । संन्यासाश्रम मे क्यों नही ।।३.१।।
ಅರ್ಜುನನು ಹೇಳಿದನು - ಜನಾರ್ದನ! ಕರ್ಮಕ್ಕಿಂತ ಜ್ಞಾನವೇ ದೊಡ್ಡದು ಎಂದು ನಿನ್ನ ಅಭಿಮತವಾದರೆ, ಕೇಶವ! ಮತ್ತೇಕೆ ನನ್ನನ್ನು ಈ ರಾಗಾದಿಕಲುಷಿತವಾದ ಕಾಮ್ಯಕರ್ಮವಾದ ಘೋರ ಯುದ್ಧದಲ್ಲಿ ತೊಡಗಿಸುವಿ?
అర్జునుడిట్లనె - ఓ జనార్దన, కర్మముకన్న జ్ఞానమే చాలా గొప్పది ఇని నీ అభిప్రాయమైనచో నన్ను శమదమాలతో నిండిన యతిధర్మమార్గమునందు గాక రాగాదికలుషితమైన కామ్యకర్మమగు యుద్ధము చేయుటకు ఎందుకు నియమించుచున్వావు?
Tamil
Arjuna asked - O Janardana, if, knowledge is superior than action according to you, why are you persuading me to take up this cruel fight instead of asking me to follow the path of sainthood?
गीताविवृतिः
हरिः ओम् । एषा तेsभिहिता साङ्ख्ये (2-39) इत्यन्तेन नत्वेवाहम् (2-12) इत्यादिना ग्रन्थेन जीवेश्वरस्वरूपमुक्त्वा तद्ज्ञानोपायं च योगेत्वमां शृणु (2-39) इति प्रतिज्ञापूर्वं त्रैगुण्यविषया वेदा इत्यादिनोक्त्वा कर्मजं बुद्धियुक्ता हि (2-51) इत्यादिना किञ्चित् प्रपञ्चनं तस्य कृतं पूर्वाध्याये । अत्र तु पूर्वोक्तस्यैव निवृत्तकर्मरूपज्ञानोपायशब्दितयोगस्यावश्यकार्यतया ज्ञापनरूपं प्रपञ्चनं प्राचुर्येण क्रियत इति पूर्वोत्तराध्याययोः पौर्वापर्यं ध्येयम् ।
दूरेण ह्यवरं कर्म (2-49) इत्युक्ते लब्धावसरोsर्जुनः पृच्छति - ज्यायसी चेदिति ।। दूरेण ह्यवरं कर्म बुद्धियोगात् । कृपणाः फलहेतवः (2-49) इत्यादिनोक्तदिशा बुद्धिः कर्मणः सकाशात् ज्यायसी चेत् श्रेष्ठा यदि हे जनार्दन ते तव मता तत् तर्हि कर्मणि किं मां नियोजसीत्येकः प्रश्नः । तत्रापि घोरे रागद्वेषाद्युपेते युद्धाख्ये कर्मणि किमर्थं नियोजसीत्यन्यः ।
अयं भावः - सर्व एते पुण्यलोका भवंति इत्यादि फलश्रवणेन सर्वकर्मणां गतो वा प्राप्स्यसि स्वर्गम् (2-37) इत्यादियुद्धस्यापि काम्यत्वात् तेषां च बुद्धियोगादवरत्वात् यत्याश्रमविहितानां शमादीनां फलाश्रवणेनाकाम्यत्वात्, शान्तो दान्त इत्युपक्रम्य आत्मानं पश्येत् इति ज्ञानार्थत्वश्रवणाच्च यत्याश्रमं स्वीकृत्य तद्धर्मनिष्ठो भव इत्येव नियोक्तव्यम् । न तु काम्यकर्मणि युद्धे युद्ध्यस्व भारत इति नियोजनं युक्तमिति ।
प्रमेयदीपिका
हरिः ओम् ।
ननु ज्ञानं योगस्य फलम्। तत्कथं ज्ञानिभ्योऽप्यधिको मतः? इत्यत आह- ज्ञानिभ्य इति। यद्यपि ‘ज्ञानतपसा पूताः‘ इति ज्ञानमपि तपः। तथापि तदतिरिक्तमेवात्र विवक्षितमित्याह- तपस्विभ्य इति। ब्रह्मज्ञानादाधिक्यस्यासम्भवाद् योगज्ञानाधिक्यस्य पृथगुक्तत्वादिति भावः। अतएव पूर्वं तद्व्याख्यातम्। उक्तार्थमुपपादयन् श्लोकद्वयार्थं पुराणवाक्येनाsह- उक्तं चेति। मुमुक्षूणां एतेन सर्वेषामपि योगिनां मध्ये यो मां भजते स युक्ततरो मतः। तत्रापि मद्गतेनान्तरात्मना यो भजते स युक्ततमो मत इति व्याख्यातं भवति। ‘ज्ञानिभ्योऽपि मतोऽधिकः‘ इत्येतद्योगज्ञानविषयमेव, न तद्ब्रह्मज्ञानविषयमित्येतत्पुराणवाक्येन स्थापयति- अज्ञात्वेति। ‘योगम्‘ इति शेषः। साधनाधिकं साधनेष्वधिकम्।
गीताभाष्यम्
हरिः ओम् ।
ज्ञानिभ्यो योगज्ञानिभ्यः। तपस्विभ्यः कृच्छ्रादिचारिभ्यः। उक्तं च-
‘कृच्छ्रादेरपि यज्ञादेर्ध्यानयोगो विशिष्यते।
तत्रापि शेषश्रीब्रह्मशिवादिध्यानतो हरेः।
ध्यानं कोटिगुणं प्रोक्तमधिकं वा मुमुक्षुणाम्‘।। इति गारुडे।
‘अज्ञात्वा ध्यायिनो ध्यानाज्ज्ञानमेव विशिष्यते।
ज्ञात्वा ध्यानं ज्ञानमात्राद्ध्यानादपि तु दर्शनम्।
दर्शनादपि भक्तेश्च न किञ्चित्साधनाधिकम्‘।। इति नारदीये।
गीतातात्पर्यम्
हरिः ओम् ।
'तपसश्चैव यज्ञादेर्ध्यानमेव विशिष्यते ।
अज्ञानिध्यानतो ज्ञानं ध्यानं सज्ज्ञानमप्यतः ।
तत्रापि मय्यभक्तस्य नान्यद्ध्यानं प्रयोजकम् ।
अन्यसामान्यविद् यो मे यश्चान्यं नेति पश्यति ।
अवरत्वदृगुदासीनो विद्वेषी चेत्यभक्तयः ।
मद्भक्तोपि हि कार्यार्थं यो ध्यायेदन्यदेवताः ।
परिवारतामृते तस्मात् केवलं मदुपासकः ।
वरोन्यान् मदधीनांश्च सर्वान् जानन् विशुद्धधीः'' ॥ इति च दत्तात्रेयवचनम् ॥ ४६,४७ ॥
Notes