अर्जुनः श्रीकृष्णं पृच्छति । हे जनार्दन - यदि ज्ञानमेव कर्मापेक्षया अत्युत्तमं इति त्वं मन्यसे तर्हि किमर्थं रागादिप्रसक्तिहीनं यतिधर्मं विहाय घोरे युद्धरूपे कर्मणि मां नियोजयसि इति ।।३.१।।
अर्जुन् पूछते है - हे जनार्दन, यदि ज्ञानमार्ग ही कर्ममार्ग से श्रेष्ठ मानते हो तो क्यों मुक्षे रागादियुत घोर युद्ध करनेके लिये प्रचोदित् कर रहे हो । संन्यासाश्रम मे क्यों नही ।।३.१।।
ಅರ್ಜುನನು ಹೇಳಿದನು - ಜನಾರ್ದನ! ಕರ್ಮಕ್ಕಿಂತ ಜ್ಞಾನವೇ ದೊಡ್ಡದು ಎಂದು ನಿನ್ನ ಅಭಿಮತವಾದರೆ, ಕೇಶವ! ಮತ್ತೇಕೆ ನನ್ನನ್ನು ಈ ರಾಗಾದಿಕಲುಷಿತವಾದ ಕಾಮ್ಯಕರ್ಮವಾದ ಘೋರ ಯುದ್ಧದಲ್ಲಿ ತೊಡಗಿಸುವಿ?
అర్జునుడిట్లనె - ఓ జనార్దన, కర్మముకన్న జ్ఞానమే చాలా గొప్పది ఇని నీ అభిప్రాయమైనచో నన్ను శమదమాలతో నిండిన యతిధర్మమార్గమునందు గాక రాగాదికలుషితమైన కామ్యకర్మమగు యుద్ధము చేయుటకు ఎందుకు నియమించుచున్వావు?
Tamil
Arjuna asked - O Janardana, if, knowledge is superior than action according to you, why are you persuading me to take up this cruel fight instead of asking me to follow the path of sainthood?
गीताविवृतिः
हरिः ओम् । एषा तेsभिहिता साङ्ख्ये (2-39) इत्यन्तेन नत्वेवाहम् (2-12) इत्यादिना ग्रन्थेन जीवेश्वरस्वरूपमुक्त्वा तद्ज्ञानोपायं च योगेत्वमां शृणु (2-39) इति प्रतिज्ञापूर्वं त्रैगुण्यविषया वेदा इत्यादिनोक्त्वा कर्मजं बुद्धियुक्ता हि (2-51) इत्यादिना किञ्चित् प्रपञ्चनं तस्य कृतं पूर्वाध्याये । अत्र तु पूर्वोक्तस्यैव निवृत्तकर्मरूपज्ञानोपायशब्दितयोगस्यावश्यकार्यतया ज्ञापनरूपं प्रपञ्चनं प्राचुर्येण क्रियत इति पूर्वोत्तराध्याययोः पौर्वापर्यं ध्येयम् ।
दूरेण ह्यवरं कर्म (2-49) इत्युक्ते लब्धावसरोsर्जुनः पृच्छति - ज्यायसी चेदिति ।। दूरेण ह्यवरं कर्म बुद्धियोगात् । कृपणाः फलहेतवः (2-49) इत्यादिनोक्तदिशा बुद्धिः कर्मणः सकाशात् ज्यायसी चेत् श्रेष्ठा यदि हे जनार्दन ते तव मता तत् तर्हि कर्मणि किं मां नियोजसीत्येकः प्रश्नः । तत्रापि घोरे रागद्वेषाद्युपेते युद्धाख्ये कर्मणि किमर्थं नियोजसीत्यन्यः ।
अयं भावः - सर्व एते पुण्यलोका भवंति इत्यादि फलश्रवणेन सर्वकर्मणां गतो वा प्राप्स्यसि स्वर्गम् (2-37) इत्यादियुद्धस्यापि काम्यत्वात् तेषां च बुद्धियोगादवरत्वात् यत्याश्रमविहितानां शमादीनां फलाश्रवणेनाकाम्यत्वात्, शान्तो दान्त इत्युपक्रम्य आत्मानं पश्येत् इति ज्ञानार्थत्वश्रवणाच्च यत्याश्रमं स्वीकृत्य तद्धर्मनिष्ठो भव इत्येव नियोक्तव्यम् । न तु काम्यकर्मणि युद्धे युद्ध्यस्व भारत इति नियोजनं युक्तमिति ।
प्रमेयदीपिका
हरिः ओम् ।
मध्ये लक्ष्यस्योक्तत्वात् ‘सुहृत्‘ इत्यादिकं न योगारूढलक्षणम्? इति प्रतीतिनिरासायाsह- स एवेति। साधुपापादिषु समबुद्धिश्च स योगारूढ एवेति न, किन्तु सर्वस्मात् अयोगिवर्गाद्विशिष्यत इत्येतद्वक्तुं पृथगन्वय इति भावः। साधुत्वं धर्मित्वम्, पापत्वं = पापवत्त्वं च नियतं, न तु सुहृत्त्वादिवदव्यवस्थितमित्यतः ‘सुहृदादिषु‘ इत्यनुक्त्वा ‘साधुपापादिषु‘ इत्युक्तम्। समबुद्धित्वं नाम पूजादिसाम्यमित्यन्यथाप्रतीतिनिरासायाह- जीवचित इति।
‘एष चेतनया युक्तो जीव इत्यभिधीयते‘ इति चेतनाचेतनपिण्डे जीवशब्दप्रयोगात् ‘चित‘ इत्युक्तम्। सुहृदादिचैतन्यस्य, तथा सर्वत्र सुहृदादिषु स्थितस्य परमात्मनः। एवं सर्वत्र सुहृदादिषु स्थितस्य सुहृत्त्वादेः परमात्मनिमित्तकत्वस्य चैकरूप्येण कारणेन तद्दर्शी समबुद्धिरित्यर्थः। तत्राद्यं प्रकारं विवृणोति- चिद्रूपा एवेति। मनुष्येषु यद् ‘एक एकं प्रति सुहृत्‘ इत्यादि तत् न जीवस्वभावान्तर्गतम्। किन्तु चिद्रूपत्वादिकमेवेत्यर्थः। तर्हि सुहृत्त्वादिधर्मः किमात्मकः? इत्यत आह- विशेषस्त्विति। अन्तःकरणोपादानको बाह्यधर्मः।
एतदुक्तं भवति। मुक्ताववशिष्यमाणं यज्जीवरूपं तत् ‘त्रिविधा जीवसङ्घाः‘ इत्यादिप्रमाणाद्विषममेव। किन्तु देहेन्द्रियान्तःकरणधर्मैर्यद्वैषम्यं तत्तत्स्वरूप एवारोप्य विषमबुद्धित्वं योगारूढस्य नास्तीति। द्वितीयः प्रकारः स्फुटः। तृतीयं विवृणोति- सर्वेषामिति। स्वतः स्वातन्त्र्येण।अत्र प्रमाणमाह- उक्तं चेति। स्वतः स्वरूपेण। दोषैररित्वादिभिः। एवं सुहृत्त्वादिगुणैरित्यपि ग्राह्यम्। आगन्तुकधर्मा, न स्वरूपान्तर्गता इत्यर्थः। किं तर्हि? इत्यत आह- तेषां त्विति। दोषा गुणाश्च, उपाधिरन्तःकरणादिः, सर्व सुहृत्वादिकम्। अतएव प्रकारद्वयेन। यदनात्मधर्मान् आनात्मस्वन्तर्भाव्य वैषम्यम्, यच्च क्वचित् परमेश्वरानधीनरूपत्वं तद्भ्रान्तिप्रतीतम्। योगे प्रवर्तमानं प्रति यत्सुहृत्त्वादिकं तत् मनुष्येष्वेव स्वरूपवैषम्यकारणं न भवति। ‘न तु देवादिषु‘ इत्युक्तस्यापवादमाह- एवमिति। तुशब्दोऽवधारणे। अवधारणार्थं विवृणोति- विशेष इति। विशेषो योगिनं प्रति सुहृत्त्वादिः। तदेव प्रपञ्चयति- असुरादेरिति। तथाशब्दो वक्ष्यमाणसमुच्चये। दोषा योगिनं प्रति अरित्वाद्याः। तथा चोक्तम्- ‘विद्ध्येनमिह वैरिणम्‘ 3।37 इति। गुणदोषौ सुहृत्त्वारित्वादी अनागन्तुकौ। गुणैः सुहृत्त्वादिभिरेकमात्रं गुणैकमात्रम्। तथा च श्रुतिः- यथा ह वै बहवः पशवः (बृ.उ.3.5.4) इत्यादिका।
‘सुहृत्‘ इत्यादिश्लोकस्य प्रतीत एवार्थः किं न स्यात्? इत्यत आह- न त्विति। सर्वशब्दपर्यायस्य समशब्दस्यैव सर्वनामसंज्ञा, न साधारणार्थस्य, ‘समे देशे यजति‘ इति यथा। न केवलं समपूजायां दोषः। किन्तु विषमपूजाविधानं चास्तीत्याह- वित्तमिति। बन्धुरिति बन्धुत्वम्। मान्यानि च तानि स्थानानि च। वित्तादिशब्दैः तद्वन्त उपलक्ष्यन्ते। दृष्टिरेवोक्तप्रकारत्रयेण समा कार्या, पूजा तु विषमैवेत्यत्र प्रमाणान्तरमाह- गुणेति। या विषमा पूजा सा वैषम्यम्। तस्यैव व्याख्यानम्- ‘उत्तमत्वम्‘। साम्यं ददाति। विदुःखत्वनिमित्तम्। समबुद्धित्वं प्रकारान्तरेण व्याचष्टे- सुहृदादिष्विति। एतन्न योगारूढविषयमिति तत्रैव नोक्तम्। न हि योगारूढो लौकिकेष्वरिष्वपकारं करोति। करोति यः।
सुहृन्मित्रशब्दयोः, अरिद्वेष्यशब्दयोः, उदासीनमध्यस्थशब्दयोश्चार्थभेदो न प्रतीयते। अत आह- प्रत्युपकारेति। निरपेक्षयाऽनपेक्षया। अवासितमप्रियम्। ततः उपक्रियमाणात्।
गीताभाष्यम्
हरिः ओम् ।
स एव च सर्वस्माद्विशिष्यते, साधुपापादिषु समबुद्धिः। जीवचितः परमात्मनः सर्वस्य तन्निमित्तकत्वस्य च सर्वत्रैकरूप्येण। चिद्रूपा एव हि जीवाः। विशेषस्त्वन्तःकरणकृतः। सर्वेषां साधुत्वादिकं सर्वमीश्वरकृतमेव, स्वतो न किञ्चिदपि।उक्तं चैतत्सर्वम्-
‘स्वतः सर्वेऽपि चिद्रूपाः सर्वदोषविवर्जिताः।
जीवास्तेषां तु ये दोषास्त उपाधिकृता मताः।
सर्वं चेश्वरतस्तेषां न किञ्चित्स्वत एव तु।
समा एवं ह्यतः सर्वे वैषम्यं भ्रान्तिसम्भवम्।
एवं समानजीवास्तु विशेषो देवतादिषु।
स्वाभाविकस्तु नियमादत एव सनातनः।
असुरादेस्तथा दोषा नित्याः स्वाभाविका अपि।
गुणदोषौ मानवानां नित्यौ स्वाभाविकौ मतौ।
गुणैकमात्ररूपास्तु देवा एव सदा मताः।‘ इति ब्राह्मे।
न तु साधुपापादीनां पूजादिसाम्यम्। तत्र दोषस्मृतेः।
‘समानां विषमा पूजा विषमानां समा तथा।
क्रियते येन देवोऽपि स्वपदाद्भ्रश्यते पुमान्।‘ इति ब्राह्मे।
‘वित्तं बन्धुर्वयः कर्म विद्या चैव तु (भवति) पञ्चमी।
एतानि मान्यस्थानानि गरीयो ह्युत्तरोत्तरम्।‘ (म.स्मृ 2.136) इति मानवे (वामने)।
‘गुणानुसारिणीं पूजां समां दृष्टिं च यो नरः।
सर्वभूतेषु कुरुते तस्य विष्णुः प्रसीदति।
वैषम्यमुत्तमत्वं तु ददाति नरसञ्चयात्।
पूजाया विषमा दृष्टिः समा साम्यं विदुःखजम्।
इति ब्रह्मवैवर्ते।
सुहृदादिषु शास्त्रोक्तपूजादिकृतिः अन्यूनानधिका या साऽपि समता। तदप्याहुः-
‘यथा सुहृत्सु कर्तव्यं पितृशत्रुसुतेषु च।
तथा करोति पूजादि समबुद्धिः स उच्यते।‘ इति गारुडे।
प्रत्युपकारनिरपेक्षयोपकारकृत्सुहृत्। क्लेशस्थानं निरूप्य यो रक्षां करोति स मित्रम्। अरिर्वधादिकर्ता। कर्तव्ये उपकारे अपकारे च य उदास्ते स उदासीनः। कर्तव्यमुभयमपि यः करोति स मध्यमः। अवासितकृद्वेष्यः। आह चैतत्-
द्वेष्योऽवासितकृत्कार्यमात्रकारी तु मध्यमः।
प्रियकृत्प्रियो निरूप्यापि क्लेशं यः परिरक्षति।
स मित्रमुपकारं तु अनपेक्ष्योपकारकृत्।
यस्ततः स सुहृत्प्रोक्तः शत्रुश्चापि वधादिकृत्। इति।
गीतातात्पर्यम्
हरिः ओम् ।
'यस्य यत्र यथा वृत्तिर्विहिता वर्तनं तथा ।
ज्ञानं वापि समत्वं तद्विषमत्वमतोन्यथा'' ॥ इति महाविष्णुपुराणे ।
'अनिमित्तस्नेहवांस्तु सुहृज्ज्ञात्वोपकारकृत् ।
मित्रं वधादिकृदरिर्द्वेष्यस्त्वप्रियमात्रकृत् ।
उदासीनः स्नेहवतोप्यस्नेही तत्कृतानुकृत् ।
मध्यस्थ इति विज्ञेयः सुहृदेषु विशिष्यते'' ॥ इति नारदीये ॥ ९-१९ ॥
Notes