अर्जुनः श्रीकृष्णं पृच्छति । हे जनार्दन - यदि ज्ञानमेव कर्मापेक्षया अत्युत्तमं इति त्वं मन्यसे तर्हि किमर्थं रागादिप्रसक्तिहीनं यतिधर्मं विहाय घोरे युद्धरूपे कर्मणि मां नियोजयसि इति ।।३.१।।
अर्जुन् पूछते है - हे जनार्दन, यदि ज्ञानमार्ग ही कर्ममार्ग से श्रेष्ठ मानते हो तो क्यों मुक्षे रागादियुत घोर युद्ध करनेके लिये प्रचोदित् कर रहे हो । संन्यासाश्रम मे क्यों नही ।।३.१।।
ಅರ್ಜುನನು ಹೇಳಿದನು - ಜನಾರ್ದನ! ಕರ್ಮಕ್ಕಿಂತ ಜ್ಞಾನವೇ ದೊಡ್ಡದು ಎಂದು ನಿನ್ನ ಅಭಿಮತವಾದರೆ, ಕೇಶವ! ಮತ್ತೇಕೆ ನನ್ನನ್ನು ಈ ರಾಗಾದಿಕಲುಷಿತವಾದ ಕಾಮ್ಯಕರ್ಮವಾದ ಘೋರ ಯುದ್ಧದಲ್ಲಿ ತೊಡಗಿಸುವಿ?
అర్జునుడిట్లనె - ఓ జనార్దన, కర్మముకన్న జ్ఞానమే చాలా గొప్పది ఇని నీ అభిప్రాయమైనచో నన్ను శమదమాలతో నిండిన యతిధర్మమార్గమునందు గాక రాగాదికలుషితమైన కామ్యకర్మమగు యుద్ధము చేయుటకు ఎందుకు నియమించుచున్వావు?
Tamil
Arjuna asked - O Janardana, if, knowledge is superior than action according to you, why are you persuading me to take up this cruel fight instead of asking me to follow the path of sainthood?
गीताविवृतिः
हरिः ओम् । एषा तेsभिहिता साङ्ख्ये (2-39) इत्यन्तेन नत्वेवाहम् (2-12) इत्यादिना ग्रन्थेन जीवेश्वरस्वरूपमुक्त्वा तद्ज्ञानोपायं च योगेत्वमां शृणु (2-39) इति प्रतिज्ञापूर्वं त्रैगुण्यविषया वेदा इत्यादिनोक्त्वा कर्मजं बुद्धियुक्ता हि (2-51) इत्यादिना किञ्चित् प्रपञ्चनं तस्य कृतं पूर्वाध्याये । अत्र तु पूर्वोक्तस्यैव निवृत्तकर्मरूपज्ञानोपायशब्दितयोगस्यावश्यकार्यतया ज्ञापनरूपं प्रपञ्चनं प्राचुर्येण क्रियत इति पूर्वोत्तराध्याययोः पौर्वापर्यं ध्येयम् ।
दूरेण ह्यवरं कर्म (2-49) इत्युक्ते लब्धावसरोsर्जुनः पृच्छति - ज्यायसी चेदिति ।। दूरेण ह्यवरं कर्म बुद्धियोगात् । कृपणाः फलहेतवः (2-49) इत्यादिनोक्तदिशा बुद्धिः कर्मणः सकाशात् ज्यायसी चेत् श्रेष्ठा यदि हे जनार्दन ते तव मता तत् तर्हि कर्मणि किं मां नियोजसीत्येकः प्रश्नः । तत्रापि घोरे रागद्वेषाद्युपेते युद्धाख्ये कर्मणि किमर्थं नियोजसीत्यन्यः ।
अयं भावः - सर्व एते पुण्यलोका भवंति इत्यादि फलश्रवणेन सर्वकर्मणां गतो वा प्राप्स्यसि स्वर्गम् (2-37) इत्यादियुद्धस्यापि काम्यत्वात् तेषां च बुद्धियोगादवरत्वात् यत्याश्रमविहितानां शमादीनां फलाश्रवणेनाकाम्यत्वात्, शान्तो दान्त इत्युपक्रम्य आत्मानं पश्येत् इति ज्ञानार्थत्वश्रवणाच्च यत्याश्रमं स्वीकृत्य तद्धर्मनिष्ठो भव इत्येव नियोक्तव्यम् । न तु काम्यकर्मणि युद्धे युद्ध्यस्व भारत इति नियोजनं युक्तमिति ।
प्रमेयदीपिका
हरिः ओम् ।
अध्यायस्यावान्तरप्रतिपाद्यमर्थमाह -- मरणेति। गम्यत इति गतिः। आदिपदेन मार्गादिकम्। मरणकालकर्तव्यं च गतिश्च ते आदी यस्य तत्तथोक्तम्। कर्तव्यस्मरणविषयत्व-गम्यत्वादिरूपो भगवन्महिमैव वर्ण्यत इति षट्कान्तर्भावसिद्धिः। ‘उक्तव्याख्यानपूर्वकम्‘ इति चोपस्कर्तव्यम्। तेनानन्तर्यलक्षणाऽपि सङ्गतिः सिद्धा। तत्प्रसङ्गेनैव मरणकालकर्तव्याद्युपदेशात्। ननु पूर्वाध्याये ‘ते ब्रह्म‘ (7.29) इति निर्विशेषणमेवोपक्षिप्तम्। अत एवात्र ‘किं तद्ब्रह्म‘ इति तथैव पृष्टम्। उत्तरे तु कस्मात् ‘अक्षरं परमं ब्रह्म‘ इति सविशेषणमुपादीयते? इत्यत आह -- परममिति। अक्षरस्यैव परमत्वविशेषणम्, न ब्रह्मण इत्यर्थः। तर्हि ‘अक्षरं‘ इत्येवालं, किं विशेषणेन? इत्यत आह -- वेदेति। आदिपदेन प्रकृतिर्गृह्यते। तयोरपि ब्रह्माक्षरशब्दवाच्यत्वात् प्रसक्तिः।
‘स्वभावोऽध्यात्मम्‘ (8.3) इति शब्दद्वयस्यैकविषयत्वसिद्धयेऽध्यात्मशब्दं तावत् द्वेधा व्याचष्टे -- आत्मनीति। आत्मानं = जीवमधिकृत्य तदुपकारित्वेन वर्तमानं वस्त्वित्यर्थः। ‘आत्माधिकारे‘ इति ग्रन्थविशेषस्य संज्ञा। यत्प्रतिपाद्यं तदध्यात्ममिति वा इत्यर्थः। अत्राध्यात्मशब्दं प्रथमान्तं गृहीत्वा प्रथमं व्याख्यानम्। सप्तम्यन्तमुपादाय द्वितीयं। आत्मशब्दं देहविषयमादाय व्याख्याने परमेश्वरप्रसक्तेर्न तथा व्याख्यातम्।एवं तर्हि ‘स्वभावः‘ इत्युभयस्य कथमुत्तरं? इत्यतस्तावत्तद्व्याख्यानं प्रतिजानीते -- तथा हीति। तत्राsद्योत्तरत्वेनादौ व्याचष्टे -- जैव इति। जीवस्यायं जैवः अन्तःकरणादिर्देहपर्यन्तः पदार्थः स्वभावः। स्वस्य भाव इति व्युत्पत्त्या। ‘ते ब्रह्म तद्विदुः‘ (7.29) इति जीवानां प्रकृतत्वात् स्वशब्दो जीववाची। तथा चात्मन्यधि यत् तत् इत्येवं व्याख्याताध्यात्मशब्दार्थप्रश्नस्येदमुत्तरं भवतीति भावः।
इदानीं द्वितीयोत्तरत्वेन व्याख्याति -- स्वाख्य इति। पूर्ववदत्रापि स्वशब्दो जीववाची। तथा च ‘आत्माsधिकारे‘ इति व्याख्याताध्यात्मशब्दार्थप्रश्नस्येदमुत्तरं भवतीत्याशयः। ननु जैववाचित्वे भावशब्दः सार्थकः। षष्ठ्याः साकाङ्क्षत्वात्। जीववाचित्वे तु पदार्थत्वाव्यभिचारात् स्वशब्देनैवालं, किंभावशब्देन? इत्यतो भावशब्दं तावदन्यथा व्याचष्टे -- सर्वदेति। यद्यपि भवनकर्ता भावः। तथापि विशेषानुपादाने मुख्यस्य ग्राह्यत्वात् ‘सर्वदा‘ इत्यादि सिध्यति। तथापि तस्य किं प्रयोजनम्? इत्यत आह -- अन्तःकरणादीति। स्वशब्दमात्रोपादाने तस्याsत्मीयेऽपि प्रयोगादन्तःकरणादिकमपि प्रसज्यते। तथा च न द्वितीयस्येदमुत्तरं स्यात्। आत्मैव ह्यात्माधिकारे प्रतिपाद्यो वक्तव्यः नान्तःकरणादिकम् अतस्तद्व्यावृत्त्यर्थो भावशब्दः प्रयुक्तः। कथं तेन तद्व्यावृत्तिः? इत्यत आह -- न हीति। ‘अन्नमयं हि सोम्य मनः‘ (छां.उ.6.2.9) इत्यादेरिति भावः। तथा चान्तःकरणादौ व्यावृत्ते स्वशब्द आत्मार्थतया व्याख्यातो भवतीति हृदयम्।
एवं तर्हि ‘भावः‘ इत्येवास्तु, किं स्वशब्देन? इत्यत आह -- स्वशब्द इति। ईश्वरोऽपि हि सर्वदैकप्रकारेणास्त्येव। अतो ‘भावः‘ इत्येवोक्ते तत्प्रसक्तौ पूर्ववत् द्वितीयोत्तरत्वासम्भवे तद्व्यावृत्त्यर्थः स्वशब्दः। न हि ईश्वरो जीवानां स्वः। भेदप्रमाणविरोधात्। अत एव ‘ईश्वरस्वभावो जीवः‘ इति व्याख्यानमपास्तम्। नन्वेवमपि स्वशब्दस्यात्मीयार्थत्वादीश्वरप्रसक्तिः। मैवम्। ‘द्विष्ठो यद्यपि सम्बन्धः षष्ठ्युत्पत्तिः प्रधानतः‘ इति वचनात् तस्यात्मीत्यात्वाभावात्। षष्ठ्यन्तात् खल्वयं छः।
सकलकार्योत्पत्तिनिमित्तभूतो देवतोद्देशेन च पुरोडाशादिद्रव्यपरित्यागः। ‘तज्जन्यमपूर्वमिति यावत्‘ इति व्याख्यानमसत्। तस्याध्यात्मपदेनैव गृहीतत्वादिति भावेन ‘भूतभाव‘ इत्यादिकं व्याख्याति -- भूतानामिति। उद्भवकरी च सा ईश्वरक्रिया चेति विग्रहः। ईश्वरक्रियाग्रहणं कर्मशब्देनैकार्थ्यप्रतिपत्त्यर्थम्। एवंलक्षणो यो विसर्गः स कर्मसंज्ञितः, न तु कुलालादिसम्बन्धीत्यर्थः। ननु,विसर्गशब्दस्त्यागार्थः। तत्कथमेवं व्याख्यानं? इत्यत आह -- विशेषेणेति।
गीताभाष्यम्
हरिः ओम् ।
मरणकालकर्त्तव्य-गत्याद्यस्मिन्नध्याय उपदिशति।
परमक्षरं ब्रह्म। वेदादिशङ्काव्यावृत्त्यर्थमेतत्। आत्मन्यधि यत् तद् अध्यात्मम्। आत्माधिकारे यत् तदिति वा। तथा हि -- जैवस्वभावः। स्वाख्यो भावः स्वभाव इति व्युत्पत्त्या जीवो वा स्वभावः। सर्वदा अस्त्येव एकप्रकारेणेति भावः। अन्तःकरणादिव्यावृत्त्यर्थो भावशब्दः। न ह्येकप्रकारेण स्थितिरन्तःकरणादेः। विकारित्वात्। स्वशब्द ईश्वरव्यावृत्त्यर्थः।
भूतानां जीवानां भावानां जडपदार्थानां चोद्भवकरीश्वरक्रिया विसर्गः विशेषेण सर्जनं विसर्ग इत्यर्थः।
गीतातात्पर्यम्
हरिः ओम् ।
तदिति विशेषणात् ब्रह्मेत्युक्तमन्यदेव प्रकृत्यादीनां मध्ये किञ्चित्; उपरि 'साधियज्ञं च'' इति चशब्दादधिभूतादिसहितत्वेन विष्णुज्ञानमन्यदेवेति संशयः 'किं तद् ब्रह्म'' इति प्रश्नकारणम् ॥ १,२ ॥
परमाक्षरं विष्णुरेव मुख्यत इति प्रसिद्धत्वात् तथैव (परिहार इति) परिहरति । अज्ञानां तदपि ज्ञापयितुं तथैव परिहारः । पुनरहमिति नोक्तमित्याशङ्का 'अव्यक्तं व्यक्तिमापन्नम्" इति विष्णावेव प्रयुक्तेनाव्यक्तशब्देन 'अव्यक्तोक्षर इत्युक्तः'' इति परिह्रियते । 'ये चाप्यक्षरमव्यक्तम्'' इत्यत्र तु पृथक् प्रश्नादुपासकयोः फलतारतम्यकथनात् 'कूटस्थोक्षर उच्यते'' इत्युक्ताक्षरादपि चोत्तमः इति विष्णोरुत्तमत्वकथनाच्चान्यदेवेत्यवसीयते । 'अधियज्ञोहमेव'' इति साधियज्ञमित्युक्त्या प्राप्तभेदनिवृत्त्यर्थम् । तस्यैव सर्वप्राणिदेहस्थित-रूपान्तरापेक्षया सहितत्वं युज्यते ।
'प्राणिनां देहगो विष्णुरधियज्ञ इतीरितः ।
स एव व्याप्तरूपेण ब्रह्मेति परिकीर्त्यते ।
तैस्तैरधिकयाज्यत्वाद् बृंहितत्वाच्च हेतुतः ।
अध्यात्मं तत्स्वभावो यदधिकः परमात्मगः ।
पुंसां सजडभावानां सर्गः कर्म हरेः स्मृऽतम् ।
भूताधिकत्वतो जीवा अधिभूतमितीरिताः ।
अधिको दैवतं विष्णुरेव यस्यास्तु सा रमा ।
पुरुप्राणाधिदैवाख्या त्विति ज्ञेयमिदं नरैः'' ॥ इति तत्त्वविवेके ।
कथंरूपोधियज्ञ इति प्रश्नस्तु 'अहमेव'' इत्युक्तत्वात् तल्लक्षणोक्त्यैव परिहृतः ॥॥ ३,४ ॥
Notes