अर्जुनः श्रीकृष्णं पृच्छति । हे जनार्दन - यदि ज्ञानमेव कर्मापेक्षया अत्युत्तमं इति त्वं मन्यसे तर्हि किमर्थं रागादिप्रसक्तिहीनं यतिधर्मं विहाय घोरे युद्धरूपे कर्मणि मां नियोजयसि इति ।।३.१।।
अर्जुन् पूछते है - हे जनार्दन, यदि ज्ञानमार्ग ही कर्ममार्ग से श्रेष्ठ मानते हो तो क्यों मुक्षे रागादियुत घोर युद्ध करनेके लिये प्रचोदित् कर रहे हो । संन्यासाश्रम मे क्यों नही ।।३.१।।
ಅರ್ಜುನನು ಹೇಳಿದನು - ಜನಾರ್ದನ! ಕರ್ಮಕ್ಕಿಂತ ಜ್ಞಾನವೇ ದೊಡ್ಡದು ಎಂದು ನಿನ್ನ ಅಭಿಮತವಾದರೆ, ಕೇಶವ! ಮತ್ತೇಕೆ ನನ್ನನ್ನು ಈ ರಾಗಾದಿಕಲುಷಿತವಾದ ಕಾಮ್ಯಕರ್ಮವಾದ ಘೋರ ಯುದ್ಧದಲ್ಲಿ ತೊಡಗಿಸುವಿ?
అర్జునుడిట్లనె - ఓ జనార్దన, కర్మముకన్న జ్ఞానమే చాలా గొప్పది ఇని నీ అభిప్రాయమైనచో నన్ను శమదమాలతో నిండిన యతిధర్మమార్గమునందు గాక రాగాదికలుషితమైన కామ్యకర్మమగు యుద్ధము చేయుటకు ఎందుకు నియమించుచున్వావు?
Tamil
Arjuna asked - O Janardana, if, knowledge is superior than action according to you, why are you persuading me to take up this cruel fight instead of asking me to follow the path of sainthood?
गीताविवृतिः
हरिः ओम् । एषा तेsभिहिता साङ्ख्ये (2-39) इत्यन्तेन नत्वेवाहम् (2-12) इत्यादिना ग्रन्थेन जीवेश्वरस्वरूपमुक्त्वा तद्ज्ञानोपायं च योगेत्वमां शृणु (2-39) इति प्रतिज्ञापूर्वं त्रैगुण्यविषया वेदा इत्यादिनोक्त्वा कर्मजं बुद्धियुक्ता हि (2-51) इत्यादिना किञ्चित् प्रपञ्चनं तस्य कृतं पूर्वाध्याये । अत्र तु पूर्वोक्तस्यैव निवृत्तकर्मरूपज्ञानोपायशब्दितयोगस्यावश्यकार्यतया ज्ञापनरूपं प्रपञ्चनं प्राचुर्येण क्रियत इति पूर्वोत्तराध्याययोः पौर्वापर्यं ध्येयम् ।
दूरेण ह्यवरं कर्म (2-49) इत्युक्ते लब्धावसरोsर्जुनः पृच्छति - ज्यायसी चेदिति ।। दूरेण ह्यवरं कर्म बुद्धियोगात् । कृपणाः फलहेतवः (2-49) इत्यादिनोक्तदिशा बुद्धिः कर्मणः सकाशात् ज्यायसी चेत् श्रेष्ठा यदि हे जनार्दन ते तव मता तत् तर्हि कर्मणि किं मां नियोजसीत्येकः प्रश्नः । तत्रापि घोरे रागद्वेषाद्युपेते युद्धाख्ये कर्मणि किमर्थं नियोजसीत्यन्यः ।
अयं भावः - सर्व एते पुण्यलोका भवंति इत्यादि फलश्रवणेन सर्वकर्मणां गतो वा प्राप्स्यसि स्वर्गम् (2-37) इत्यादियुद्धस्यापि काम्यत्वात् तेषां च बुद्धियोगादवरत्वात् यत्याश्रमविहितानां शमादीनां फलाश्रवणेनाकाम्यत्वात्, शान्तो दान्त इत्युपक्रम्य आत्मानं पश्येत् इति ज्ञानार्थत्वश्रवणाच्च यत्याश्रमं स्वीकृत्य तद्धर्मनिष्ठो भव इत्येव नियोक्तव्यम् । न तु काम्यकर्मणि युद्धे युद्ध्यस्व भारत इति नियोजनं युक्तमिति ।
प्रमेयदीपिका
हरिः ओम् ।
उत्तरप्रकरणस्यासङ्गतिमाशङ्क्याsह -- मां प्राप्येति। ‘अवस्थितानाम्‘ इति शेषः। प्रतिज्ञामात्रेण हि तदुक्तम्। अव्यक्तसामर्थ्यस्यात्र कथनात् कथम् ‘आत्म‘ इत्युच्यते? इत्यत उक्तम् -- अव्यक्ताख्येति। प्रलयादीति। तत्कारणत्वमात्मनः। सृष्टिप्रलययोरिदम्पूर्वत्वाभावज्ञापनाय गीतामुल्लङ्घ्योक्तम्। अत्र सहस्रशब्दो,दशशतवाचीतिप्रतीतिनिरासायाsह -- सहस्रेति। बहुशब्दपर्यायोऽयं, न तु प्रसिद्धार्थः। विरिञ्चाहोरात्रयोः प्रसिद्धस्य सहस्रचतुर्युगपर्यन्तत्वात् कथमेतत्? इत्यत आह -- ब्रह्मेति। तथा च द्विपरार्धप्रलयस्याsदिसृष्टेश्चात्र विवक्षितत्वात् उक्तं युक्तम्। ननु परस्य ब्रह्मणो नित्यत्वादहोरात्रे न स्तः। तत्कथं तत्परमेतत्? इत्यत आह -- सेति। सा निर्व्यापारावस्था, परिपूर्णरूपस्यापि हरेः रजनीत्यर्थः। अनेनाहरपि सिद्धम्। भवेदेतद् यद्यत्र द्विपरार्धप्रलयस्यादिसृष्टेश्च विवक्षेत्यत्र प्रमाणं स्यात्? इत्यत आह -- द्विपरार्धेति। एवमादिसृष्टिश्चेत्यपि ग्राह्यम्। न ह्यवान्तरसृष्टिप्रलययोः सर्वकार्योत्पत्तिविनाशाविति भावः। आगमान्तरसम्मतेश्चैवमित्याह -- उक्तं चेति। इतोऽप्येवमित्याह -- य इति। न ह्यवान्तरप्रलये सर्वेषामाकाशादीनां भूतानां नाशः नापि विरिञ्चस्य पञ्चभूतनाशेऽपि अविनाशित्वमिति भावः।
गीताभाष्यम्
हरिः ओम् ।
‘मां प्राप्य न पुनरावृत्तिः‘ इति स्थापयितुं अव्यक्ताख्यात्मसामर्थ्यं दर्शयितुं प्रलयादि दर्शयति -- सहस्रयुगेत्यादिना। सहस्रशब्दोऽत्रानेकवाची। ब्रह्मपरम्। ‘सा विश्वरूपस्य रजनी‘ इति श्रुतिः। द्विपरार्धप्रलय एवात्र विवक्षितः।‘अव्यक्ताद्व्यक्तयः सर्वाः‘ [8.18] इत्युक्तेः। उक्तं च महाकौर्मे-
‘अनेकयुगपर्यन्तं महाविष्णोस्तथा निशा।
रात्र्यादौ लीयते सर्वमहरादौ तु जायते‘ इति च।
‘यः स सर्वेषु भूतेषु‘ [8.20] इति वाक्यशेषाच्च।
गीतातात्पर्यम्
हरिः ओम् ।
सहस्रमिति बह्वेव । ब्रह्मणः परब्रह्मणः ।
'अव्यक्ताद् व्यक्तयः सर्वाः प्रभवन्त्यहरागमे रात्र्यागमे प्रलीयन्ते तत्रैवाव्यक्तसञ्ज्ञके'' ॥ इति वाक्यशेषात् ।
नहि विरिञ्चाहन्येव सर्वव्यक्तलयः ।
'नित्यस्यापि हरेः कालो द्विपरार्धात्मकस्त्वयम् ।
अहःश्चासौ(श्वासो) निमेषश्चेत्यप्रवृत्त्योपचर्यते'' ॥ इति च ॥१७ ॥
Notes