अर्जुनः श्रीकृष्णं पृच्छति । हे जनार्दन - यदि ज्ञानमेव कर्मापेक्षया अत्युत्तमं इति त्वं मन्यसे तर्हि किमर्थं रागादिप्रसक्तिहीनं यतिधर्मं विहाय घोरे युद्धरूपे कर्मणि मां नियोजयसि इति ।।३.१।।
अर्जुन् पूछते है - हे जनार्दन, यदि ज्ञानमार्ग ही कर्ममार्ग से श्रेष्ठ मानते हो तो क्यों मुक्षे रागादियुत घोर युद्ध करनेके लिये प्रचोदित् कर रहे हो । संन्यासाश्रम मे क्यों नही ।।३.१।।
ಅರ್ಜುನನು ಹೇಳಿದನು - ಜನಾರ್ದನ! ಕರ್ಮಕ್ಕಿಂತ ಜ್ಞಾನವೇ ದೊಡ್ಡದು ಎಂದು ನಿನ್ನ ಅಭಿಮತವಾದರೆ, ಕೇಶವ! ಮತ್ತೇಕೆ ನನ್ನನ್ನು ಈ ರಾಗಾದಿಕಲುಷಿತವಾದ ಕಾಮ್ಯಕರ್ಮವಾದ ಘೋರ ಯುದ್ಧದಲ್ಲಿ ತೊಡಗಿಸುವಿ?
అర్జునుడిట్లనె - ఓ జనార్దన, కర్మముకన్న జ్ఞానమే చాలా గొప్పది ఇని నీ అభిప్రాయమైనచో నన్ను శమదమాలతో నిండిన యతిధర్మమార్గమునందు గాక రాగాదికలుషితమైన కామ్యకర్మమగు యుద్ధము చేయుటకు ఎందుకు నియమించుచున్వావు?
Tamil
Arjuna asked - O Janardana, if, knowledge is superior than action according to you, why are you persuading me to take up this cruel fight instead of asking me to follow the path of sainthood?
गीताविवृतिः
हरिः ओम् । एषा तेsभिहिता साङ्ख्ये (2-39) इत्यन्तेन नत्वेवाहम् (2-12) इत्यादिना ग्रन्थेन जीवेश्वरस्वरूपमुक्त्वा तद्ज्ञानोपायं च योगेत्वमां शृणु (2-39) इति प्रतिज्ञापूर्वं त्रैगुण्यविषया वेदा इत्यादिनोक्त्वा कर्मजं बुद्धियुक्ता हि (2-51) इत्यादिना किञ्चित् प्रपञ्चनं तस्य कृतं पूर्वाध्याये । अत्र तु पूर्वोक्तस्यैव निवृत्तकर्मरूपज्ञानोपायशब्दितयोगस्यावश्यकार्यतया ज्ञापनरूपं प्रपञ्चनं प्राचुर्येण क्रियत इति पूर्वोत्तराध्याययोः पौर्वापर्यं ध्येयम् ।
दूरेण ह्यवरं कर्म (2-49) इत्युक्ते लब्धावसरोsर्जुनः पृच्छति - ज्यायसी चेदिति ।। दूरेण ह्यवरं कर्म बुद्धियोगात् । कृपणाः फलहेतवः (2-49) इत्यादिनोक्तदिशा बुद्धिः कर्मणः सकाशात् ज्यायसी चेत् श्रेष्ठा यदि हे जनार्दन ते तव मता तत् तर्हि कर्मणि किं मां नियोजसीत्येकः प्रश्नः । तत्रापि घोरे रागद्वेषाद्युपेते युद्धाख्ये कर्मणि किमर्थं नियोजसीत्यन्यः ।
अयं भावः - सर्व एते पुण्यलोका भवंति इत्यादि फलश्रवणेन सर्वकर्मणां गतो वा प्राप्स्यसि स्वर्गम् (2-37) इत्यादियुद्धस्यापि काम्यत्वात् तेषां च बुद्धियोगादवरत्वात् यत्याश्रमविहितानां शमादीनां फलाश्रवणेनाकाम्यत्वात्, शान्तो दान्त इत्युपक्रम्य आत्मानं पश्येत् इति ज्ञानार्थत्वश्रवणाच्च यत्याश्रमं स्वीकृत्य तद्धर्मनिष्ठो भव इत्येव नियोक्तव्यम् । न तु काम्यकर्मणि युद्धे युद्ध्यस्व भारत इति नियोजनं युक्तमिति ।
प्रमेयदीपिका
हरिः ओम् ।
परिहारं सङ्गमयितुमधिभूतशब्दार्थं तावदाह-- भूतानीति। अधिकृत्य= तदुपकारित्वेन यद्वर्तते। ‘क्षरः सर्वाणि भूतानि‘ [15.16] इति वक्ष्यमाणं क्षरं व्यावर्तयितुं व्याचष्टे -- क्षर इति। क्षरशब्दव्याख्या- विनाशीति। भावशब्दस्यार्थद्वयं- कार्य इति, पदार्थ इति। भवति= उत्पद्यत इति भावः। ‘उत्पत्तिमान्पदार्थः‘, ‘नाशवान् पदार्थः‘ इति प्रत्येकमुत्तरम्। सर्वभूतानामध्यात्मत्वान्न ग्रहणम्। नन्वव्यक्तमपि सशरीरान् जीवानधिकृत्य वर्तत इति तस्याप्यधिभूतेऽन्तर्भावोऽस्त्येव। न चैतद्विनाशि कार्यं वा। ‘नासतः‘ [2.16] इत्युक्तत्वात्। ततोऽव्यापकमुत्तरम्? इत्यत आह -- अव्यक्तेति। अव्यक्तस्याधिभूतान्तर्भावेऽपि नाव्यापकमुत्तरमिति शेषः। कुतः? इत्यत आह -- तस्यापीति। अन्यथाभावो वैषम्यपरित्यागेन साम्यावस्थापत्तिः। ‘यत‘ इति शेषः। तथा ‘विक्रियालक्षणं जन्म च‘ इत्यपि ग्राह्यम्।
उभयत्र क्रमेण प्रमाणान्याह -- तच्चेति। व्योम्नि व्याप्ते प्रलये प्रचुरव्यापाराभावात् निष्क्रिये। ननु पुरुषः परमात्मा। स ब्रह्माधियज्ञशब्दाभ्यामुक्त? इत्यत आह -- पुरीति। शरीरे। ‘अधिकरणे शेतेः‘ [अष्टा.3।2।15] इति डः ‘वर्णागमो वर्णविपर्ययश्च‘ इत्यादिना साधुः। तथाप्यध्यात्मशब्देन गतार्थतेत्यत आह -- स चेति। सर्वजीवाभिमानित्वादिति भावः। तस्याधिदैवत्वं कथं? इत्यतो द्वेधाऽऽह -- स इति। ‘अधिकृत्य वर्तते‘ इत्यस्यैव विवरणं -- पतिरिति। देवाधिकारस्थ तत्प्रकरणेषु मुख्यतः प्रतिपाद्यः। सर्वदेवता सङ्ग्रहार्थं वा द्वितीयं व्याख्यानम्। अक्षरार्थस्तु पूर्ववत्।
अधियज्ञः कथं? [8.2] इत्यस्योत्तरं भगवताऽनुक्तं भाष्यकृदाह -- सर्वेति। आदिपदेन तत्प्रवर्तकत्वादि। नाऽध्यात्मशब्दवदधियज्ञशब्देऽव्ययीभावः। किन्तु ‘अधिगतो यज्ञम्‘ इति प्रादिसमासः। ‘अधिष्ठितो यज्ञोऽनेन‘ इति बहुव्रीहिर्वा।अधियज्ञः कः? इति प्रश्ने तत्परिहारे च ‘देहे‘ इत्यस्य प्रयोजनमाह -- अन्य इति। ‘अन्यो भगवतः‘ इति सिद्धार्थतापरिहारार्थं प्रश्नवाक्ये ‘देहे‘ इति विशेषणं प्रयुक्तम्। कर्तृभोक्तृफलदातृ़णां हेप्रेरकत्वेन वर्तमान इति। ‘अतः परिहारवाक्येऽपि यथाप्रश्नं तदुपात्तम्‘ इति वाक्यशेषः। भगवतः सर्वयज्ञभोक्तृत्वं कुतः? येनैवमुत्तरमध्याह्रियते? इत्यत आह -- भोक्तारमिति। त्रैविद्यानुष्ठितयज्ञभोक्तृत्वाभावात् ‘सर्व‘ इत्यनुपपन्नम्? इत्यत आह -- त्रैविद्या इति। प्रवर्तकत्वे श्रुतिमाह -- एतस्येति। यज्ञफलदातृत्वादौ प्रमाणमाह -- कुतो हीति। ध्रुवश्चिरन्तनः। ‘निश्श्रेयसे = मुक्तौ भवं पदं सुखम्‘। इत्यादेः प्रश्नस्य। नन्वेष परिहरो भगवतैवं कुतो नोक्तः? इत्यत आह -- भगवांश्चेदिति। चेच्छब्दो यदाशब्दार्थे। ‘अधियज्ञोऽहम्‘ इति यदाsधियज्ञत्वेन भगवानुक्तः तदा तस्य सर्वयज्ञभोक्तृत्वादेः अधियज्ञत्वम् अर्जुनस्य सिद्धमेव। ‘भोक्तारम्‘ (5.29) इत्यादेरर्थस्य तेन श्रुतत्वात्। ‘अन्यत्वपक्ष एव कथम्‘ इति पृष्टत्वात्। एवमालोच्य भगवता ‘कथम्‘ इत्यस्य प्रश्नस्य परिहारः ‘अधियज्ञोऽहम्‘ इत्यतः पृथक् नोक्तः। अस्माभिस्तु मन्दान्बोधयितुमुक्त इति भावः। ननु यज्ञधियज्ञः स्वयमेव कथं तर्हि ‘साधियज्ञं मां‘(7.30) इति प्रागवोचत्? इत्यत आह -- सर्वेति। रूपविशेषापेक्षया साहित्यमुक्तमिति भावः। अनेन परिहारवाक्यस्थस्य ‘देहे‘ इति विशेषणस्य प्रयोजनान्तरं चोक्तं भवति।
‘अत्र‘ इति देहविशेषणं किमर्थं? इत्यत आह -- अत्रेति। इह लौकिके देह इत्यर्थः। कुत ईश्वरदेहो व्यावर्तनीयः? इत्यत आह -- न हीति। तत्र स्वदेहे। पृथक् पृथग्भावेन। यथा ‘अधियज्ञोऽहमेव‘ इत्युक्तं न तथा ‘ब्रह्माहम्‘ इति। अतो भगवतोऽन्यदेवेदं। ‘ब्रह्म परमम्‘ (8.3) इति तु स्वरूपकथनम्, न तु विशेषणमिति शङ्कां निवारयति -- नात्रेति। पूर्वाध्याये ‘ते ब्रह्म तद्विदुः‘ [7.29] इत्युक्त्वा कथम्भूतं ब्रह्मेत्याकाङ्क्षायां ‘साधिभूताधिदैवं साधियज्ञं च ब्रह्म‘(7.30) इति वक्तव्ये ‘माम्‘ इति ब्रह्मणः परामर्शात्। तत्रास्तु भगवानेव ब्रह्म। अत्र तु कुतः इत्यत आह -- तस्यैवेति। पृष्टस्यैव वक्तव्यत्वात्। तर्हि अधियज्ञस्य ब्रह्मणश्च भगवत्त्वादेकत्र ‘अहमेव‘ इत्युक्तिः अपरत्र तदनुक्तिः किंनिबन्धना? इत्यत आह -- साधियज्ञमिति। शेषं तात्पर्यनिर्णये। एतेनाsपव्याख्यानमपि निरस्तम्। द्वादशादौ(गी.भा. 12.12) च विस्तरेण।
आगमसम्मत्योक्तं स्थापयति -- आह चेति। यानि देहस्थविष्णुरूपाणि सः अधियज्ञ इतीरितः। तदपीच्छाप्रयत्नाद्यमेव न तु परिणामरूपम्। जडं देहाद्बाह्यम्। न केवलमेषां पदानामेतावन्मात्रार्थत्वं किन्तु यथाप्रतीतं प्रतीतिमनतिक्रम्य शब्दशक्त्या यावत्प्रतीतं प्रमाणाविरुद्धं च तदत्र व्याख्यायमानं वक्तुरभिप्रायं न व्यभिरचरतीत्यर्थः। कि़ञ्चिद्व्यवहितत्वात् मध्येऽपि ‘इति‘ शब्दः। एतदेव वाक्यान्तरेण स्पष्टयति -- स्कान्दे चेति। आत्मनोऽभिमानस्य विषयः। आत्माधिकारस्थं तत्र प्रतिपाद्यम्। ‘देहाद्बाह्यं विना‘ इति सामर्थ्यादात्माभिमानस्थेन सम्बध्यते। तत्र युक्तिः- अतीव बाह्यत्वात् अत्यभिमानविषयत्वाभावात्। महाभूताधिकारगं महाभूतम्। कार्यकारणग्रहणहेतुः। तदन्तिकात्तत्तादात्म्यात्। देवानामुपकारकृत्।
गीताभाष्यम्
हरिः ओम् ।
भूतानि= सशरीरान् जीवान् अधिकृत्य यत् तद् अधिभूतम्। क्षरो भावो विनाशी कार्यपदार्थः। अव्यक्तान्तर्भावेऽपि तस्याप्यन्यथाभावाख्यो विनाशोऽस्त्येव। तच्चोक्तम् –
‘अव्यक्तं परमे व्योम्नि निष्क्रिये सम्प्रलीयते‘। इति।
‘तस्मादव्यक्तमुत्पन्नं त्रिगुणं द्विजसत्तम‘। इति च।
वि‘कारोऽव्यक्तजन्म हि‘ इति च स्कान्दे।
पुरि शयनात्पुरुषो जीवः। स च सङ्कर्षणो ब्रह्मा वा। स सर्वदेवानधिकृत्य वर्तते तत्पतिरिति अधिदैवतम्। देवाधिकारस्थ इति वा। देवान् इन्द्रियाण्यपेक्ष्य।
सर्वयज्ञभोक्तृत्वादेरधियज्ञः। अन्योऽधियज्ञोऽग्न्यादिः प्रसिद्ध इति ‘देहे‘ इति विशेषणम्। ‘भोक्तारं यज्ञतपसां‘ [5.29]। ‘त्रैविद्या मां‘ [9.20]। ‘येsप्यन्यदेवताभक्ताः‘ [9.23] ‘एतस्य वा अक्षरस्य प्रशासने गार्गि ददतो मनुष्याः प्रशंसन्ति यजमानं देवाः‘ [बृ.उ.5.8.9] इत्यादेः।
‘कुतो ह्यस्य ध्रुवः स्वर्गः कुतो नैश्श्रेयसं पदम्‘ [मं.भा.शां.प. 342.2]
इत्यादिपरिहारश्च मोक्षधर्मे। भगवान् चेत् तद्भोक्तृत्वादेरधियज्ञत्वं सिद्धमिति ‘कथम्‘ इत्यस्य परिहारः पृथङ्नोक्तः। सर्वप्राणिदेहस्थरूपेण साधियज्ञः।
‘अत्र‘ इति स्वदेहनिवृत्त्यर्थम्। न हि तत्रेश्वरस्य नियन्तृत्वं पृथगस्ति। नात्रोक्तं ब्रह्म भगवतोऽन्यत्। ‘ते ब्रह्म‘ [7.29] इत्युक्त्वा ‘साधिभूताधिदैवं मां साधियज्ञं च ये विदुः‘ [7.30] इति परामर्शात्। तस्यैव च प्रश्नात्। ‘साधियज्ञं‘ इति भेदप्रतीतेस्तन्निवृत्त्यर्थं ‘अधियज्ञोऽहं‘ इत्युक्तम्। ‘माम्‘ इत्यभेदसिद्धेः ‘अक्षरम्‘ इत्येवोक्तम्। आह च गीताकल्पे –
‘देहस्थविष्णुरूपाणि अधियज्ञ इतीरितः।
कर्मेश्वरस्य सृष्ट्यर्थं तच्चापीच्छाद्यमुच्यते।
अधिभूतं जडं प्रोक्तमध्यात्मं जीव उच्यते।
हिरण्यगर्भोऽधिदैवं देवः सङ्कर्षणोऽपि वा।
ब्रह्म नारायणो देवः सर्वदेवेश्वरेश्वरः‘ इति।
‘यथा प्रतीतं वा सर्वमत्र नैव विरुध्यते‘ इति च। स्कान्दे च –
‘आत्माभिमानाधिकारस्थितमध्यात्ममुच्यते।
देहाद्बाह्यं विनाऽतीव बाह्यत्वादधिदैवतम्।
देवाधिकारगं सर्वं महाभूताधिकारगम्।
तत्कारणं तथा कार्यमधिभूतं तदन्तिकात्‘ इति। महाकौर्मे च –
‘अध्यात्मं देहपर्यन्तं केवलात्मोपकारकम्।
सदेहजीवभूतानि यत्तेषामुपकारकृत्।
अधिभूतं तु मायान्तं देवानामधिदैवतम्‘ इति।
गीतातात्पर्यम्
हरिः ओम् ।
Notes