अर्जुनः श्रीकृष्णं पृच्छति । हे जनार्दन - यदि ज्ञानमेव कर्मापेक्षया अत्युत्तमं इति त्वं मन्यसे तर्हि किमर्थं रागादिप्रसक्तिहीनं यतिधर्मं विहाय घोरे युद्धरूपे कर्मणि मां नियोजयसि इति ।।३.१।।
अर्जुन् पूछते है - हे जनार्दन, यदि ज्ञानमार्ग ही कर्ममार्ग से श्रेष्ठ मानते हो तो क्यों मुक्षे रागादियुत घोर युद्ध करनेके लिये प्रचोदित् कर रहे हो । संन्यासाश्रम मे क्यों नही ।।३.१।।
ಅರ್ಜುನನು ಹೇಳಿದನು - ಜನಾರ್ದನ! ಕರ್ಮಕ್ಕಿಂತ ಜ್ಞಾನವೇ ದೊಡ್ಡದು ಎಂದು ನಿನ್ನ ಅಭಿಮತವಾದರೆ, ಕೇಶವ! ಮತ್ತೇಕೆ ನನ್ನನ್ನು ಈ ರಾಗಾದಿಕಲುಷಿತವಾದ ಕಾಮ್ಯಕರ್ಮವಾದ ಘೋರ ಯುದ್ಧದಲ್ಲಿ ತೊಡಗಿಸುವಿ?
అర్జునుడిట్లనె - ఓ జనార్దన, కర్మముకన్న జ్ఞానమే చాలా గొప్పది ఇని నీ అభిప్రాయమైనచో నన్ను శమదమాలతో నిండిన యతిధర్మమార్గమునందు గాక రాగాదికలుషితమైన కామ్యకర్మమగు యుద్ధము చేయుటకు ఎందుకు నియమించుచున్వావు?
Tamil
Arjuna asked - O Janardana, if, knowledge is superior than action according to you, why are you persuading me to take up this cruel fight instead of asking me to follow the path of sainthood?
गीताविवृतिः
हरिः ओम् । एषा तेsभिहिता साङ्ख्ये (2-39) इत्यन्तेन नत्वेवाहम् (2-12) इत्यादिना ग्रन्थेन जीवेश्वरस्वरूपमुक्त्वा तद्ज्ञानोपायं च योगेत्वमां शृणु (2-39) इति प्रतिज्ञापूर्वं त्रैगुण्यविषया वेदा इत्यादिनोक्त्वा कर्मजं बुद्धियुक्ता हि (2-51) इत्यादिना किञ्चित् प्रपञ्चनं तस्य कृतं पूर्वाध्याये । अत्र तु पूर्वोक्तस्यैव निवृत्तकर्मरूपज्ञानोपायशब्दितयोगस्यावश्यकार्यतया ज्ञापनरूपं प्रपञ्चनं प्राचुर्येण क्रियत इति पूर्वोत्तराध्याययोः पौर्वापर्यं ध्येयम् ।
दूरेण ह्यवरं कर्म (2-49) इत्युक्ते लब्धावसरोsर्जुनः पृच्छति - ज्यायसी चेदिति ।। दूरेण ह्यवरं कर्म बुद्धियोगात् । कृपणाः फलहेतवः (2-49) इत्यादिनोक्तदिशा बुद्धिः कर्मणः सकाशात् ज्यायसी चेत् श्रेष्ठा यदि हे जनार्दन ते तव मता तत् तर्हि कर्मणि किं मां नियोजसीत्येकः प्रश्नः । तत्रापि घोरे रागद्वेषाद्युपेते युद्धाख्ये कर्मणि किमर्थं नियोजसीत्यन्यः ।
अयं भावः - सर्व एते पुण्यलोका भवंति इत्यादि फलश्रवणेन सर्वकर्मणां गतो वा प्राप्स्यसि स्वर्गम् (2-37) इत्यादियुद्धस्यापि काम्यत्वात् तेषां च बुद्धियोगादवरत्वात् यत्याश्रमविहितानां शमादीनां फलाश्रवणेनाकाम्यत्वात्, शान्तो दान्त इत्युपक्रम्य आत्मानं पश्येत् इति ज्ञानार्थत्वश्रवणाच्च यत्याश्रमं स्वीकृत्य तद्धर्मनिष्ठो भव इत्येव नियोक्तव्यम् । न तु काम्यकर्मणि युद्धे युद्ध्यस्व भारत इति नियोजनं युक्तमिति ।
प्रमेयदीपिका
हरिः ओम् ।
ननु कलेवरत्यागस्य अन्ताव्यभिचारात् ‘अन्ते‘ इति व्यर्थम्? इत्यत आह -- स्मरन्निति। न ‘अन्ते‘ इत्येतत् ‘कलेवरं त्यजति‘ इत्यस्य विशेषणं येन व्यर्थं स्यात्। किन्तु ‘अन्ते स्मरन्‘ इति स्मरणस्यैव। तत्रापि किं प्रयोजनं? इति चेत् उच्यते। ‘लक्षणहेत्वोः क्रियायाः‘ [अष्टा.3.2.126] इति लक्षणेऽपि शतुर्विधानात्, ‘स्मरन्पुरुषः कलेवरं त्यजति‘ इति स्मरणकलेवरत्यागयोर्भिन्नकालत्वेऽपि न कश्चिच्छब्दविरोध इति मन्दमतेः शङ्का स्यात्। सा मा भूदित्येवमर्थम् ‘अन्ते‘ इति स्मरणस्य विशेषणमुपात्तम्। तेनात्र स्मरणकलेवरत्यागयोरेककालत्वसिद्धिरिति।
‘मन्दमतेः‘ इत्यस्य कृत्यमाह -- सुमतेरिति। कुतः? इत्यत आह -- स्मरन्निति। ‘लटः शतृशानचौ..‘ [अष्टा.3.2.124] इति लडादेशत्वेनापि शतुर्विधानमस्ति स च ‘लट्‘ इति वर्तमाने पुनर्लङ्ग्रहणसामर्थ्यात्क्वचित् प्रथमासामानाधिकरण्येऽपि भवति। लक्षणे विहिताच्च ल़डादेशो बलीयान्। तत्र ‘क्रियायाम्‘ इत्युपपदसापेक्षत्वात्। अस्यानपेक्षत्वात्। ‘अप्रथमासमानाधिकरणे‘ इत्यस्यातिप्रसक्तिपरिहारमात्रार्थत्वात्। तथा च बलवतो ग्राह्यत्वे ‘स्मरंस्त्यजति‘ इत्यस्य ‘स्मरति च‘ ‘त्यजति च‘ इत्यर्थः स्यात्। एवं च ‘अन्ते‘ इत्यनुक्ते़ऽपि स्मरणत्यागयोरेककालीनत्वप्रतीतेः सुमतेर्नैव शङ्कावकाश इति भावः।
ननु दुर्मतिरपि शाब्दं न्यायं जानात्येव। अन्यथा शास्त्रे नाधिक्रियेत। केवलमध्यात्मविषये न प्रवीणः। तत्कथं तस्याsप्येषा शङ्का स्यात्? ततश्च तं प्रत्यपि ‘अन्ते‘ इत्येतत् व्यर्थम्? इत्यत आह -- दुर्मतेरिति। दुर्मतेर्भविष्यति शङ्का भिन्नकालत्वविषया? कुतः? मरणकाले महद्दुःखं जायते। दुःखस्य च संस्कारविलोपहेतुत्वं प्रसिद्धम्। अतो दुःखात्कारणात् मूर्छितो न स्मरंस्त्यजति। कलेवरत्यागसमये स्मरणमसम्भवीति यावत्। एतामनुपपत्तिं पश्यन् बलवन्तमपि लडादेशं विहाय लक्षणार्थमेव हि मन्यत इति भावः।
ननु सुमतेरप्येवं शङ्का स्यादेव। कथं चेयं शङ्का तत्त्वप्रतीतिरेवेति चेत् न। अज्ञानिन एव देहाभिमानिनो देहत्यागमात्मत्यागमिव मन्यमानस्य मरणकाले दुःखं भवति। तदपि मरणक्षणात्पूर्वमेव ज्ञानी तु सर्वदा देहं हेयमेव मन्यमानो न मनागपि दुःखायते। किन्तु विशिष्टमेव तस्योत्क्रमणामत्यध्यात्मशास्त्रमनुसन्दधानस्य सुमतेः शङ्कानवकाशात्। किं तत् अध्यात्मशास्त्रं? इत्यत आह -- त्यजन्निति। कश्चिद्विद्वान्। अविद्वानपि तत्काले। ‘तस्य‘ इति मरणवैशिष्ट्यमात्रपरम्।
ननु ‘अन्ते‘ इत्येतत् स्मरणविशेषणं चेत् तदा ‘सदा तद्भावभावितः‘ [8.6] इत्यनेनैव गतार्थं स्यात्। अन्यथा तद्व्यर्थं भवेत्? इत्यत आह -- सदेति। अन्तकालस्मरणमेव तत्प्राप्तिसाधनम्। न च तद् अकस्माद्भवति। अतः तदुपायत्वेन सदा तद्भावभावितत्वमुच्यत इत्यर्थः। कथम्? इत्यतो यथाऽयं तदुपायः स्यात् तथा व्याचष्टे -- भाव इति। तथाऽभिधानादिति। ‘स्याद्भावोऽन्तर्गतं मनः‘ इत्येवं रूपादभिधानादित्यर्थः। वासितत्वं संस्कृतत्वम्। तस्मिन् भावः तद्भावः। ‘तेन भावितः‘ इति मनोधर्मेणाsत्मोपचर्यते।
गीताभाष्यम्
हरिः ओम् ।
स्मरन्पुरुषस्त्यजतीति भिन्नकालीनत्वेऽप्यविरोध इति मन्दमतेः शङ्का मा भूदिति ‘अन्ते‘ इति विशेषणम्। सुमतेः नैव शङ्कावकाशः। ‘स्मरंस्त्यजति‘ इत्येककालीनत्वप्रतीतेः। दुर्मतेर्दुःखान्न स्मरंस्त्यजतीति शङ्का।
‘त्यजन्देहं न कश्चित्तु मोहमाप्नोत्यसंशयम्‘ इति स्कान्दे।
‘तस्य हैतस्य हृदयस्याग्रं प्रद्योतते
तेन प्रद्योतनेन एष आत्मा निष्क्रामति [बृ.उ.6.4.2] इति हि श्रुतिः।
‘सदा तद्भावभावितः‘ इत्यन्तकालस्मरणोपायमाह -- भावोऽन्तर्गतं मनः तथाभिधानात्। भावितत्वं अतिवासितत्वम्।भावना त्वतिवासना इत्यभिधानात्।
गीतातात्पर्यम्
हरिः ओम् ।
Notes